शास्त्र मंगलाचरण

प्रारंभिक पाठ · स्तोत्र
ॐ नमः सिद्धेभ्यः 
ॐ जय जय जय नमोऽस्तु ! नमोऽस्तु !! नमोऽस्तु !!! 
णमो अरहंताणं, णमो सिद्धाणं, णमो आइरियाणं। णमो उवज्झायाणं, णमो लोए सव्वसाहूणं ।। 

ॐकारं बिन्दुसंयुक्तं, नित्यं ध्यायन्ति योगिनः । 
कामदं मोक्षदं चैव, ॐकाराय नमो नमः ।। 

अविरल – शब्दघनौघ प्रक्षालित सकलभूतल – कलङ्का। 
मुनिभिरुपासित – तीर्थ सरस्वती हरतु नो दुरितान् ।। 
अज्ञान – तिमिरान्धानां ज्ञानाञ्जन शलाक्या । 
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ।। 

श्रीपरमगुरवे नमः, परम्पराचार्यगुरवे नमः सकलकलुष – विध्वंसकं, श्रेयसां परिवर्धकं, धर्मसम्बन्धकं भव्यजीवमनः प्रतिबोधकारकमिदं शास्त्रं श्री (ग्रन्थाचे नाव) नामधेयं, अस्य मूलग्रन्थकर्तारः श्रीसर्वज्ञदेवाः तदुत्तरग्रन्थकर्तारः श्रीगणधरदेवाः प्रतिगणधरदेवाः तेषां वचोऽनुसारमासाद्य श्री (आचार्यांचे नाव) आचार्येण विरचितं, श्रोतारः सावधानतया श्रृण्वन्तु । 

मङ्गलं भगवान् वीरो, मङ्गलं गौतमो गणी। 
मङ्गलं कुन्दकुन्दार्यो, जैनधर्मोऽस्तु मङ्गलम् ।। 
सर्व मङ्गल – माङ्गल्यं सर्वकल्याणकारकम्। 
प्रधानं सर्वधर्माणां जैनं जयतु शासनम् ।। 
पुढे: श्री मंगलाष्टक स्तोत्र – पाठ, अर्थ आणि महत्त्व
🏠मुख्य पान📿जिनवाणी⛰️तीर्थक्षेत्र📖आगम🧘तत्त्वज्ञान